________________
प्रथमोऽध्यायः ]
* कार्त्तिकधर्मवर्णनम् *
ब्रह्मोवाच
४१७
॥ श्रीगणेशायनमः ॥
* श्रीराधादामोदराभ्यांनमः *
कार्त्तिकमासमाहात्म्यारम्भः
प्रथमोऽध्यायः
कार्त्तिकमासव्रतप्रशंसनवर्णनम्
नारायणं नमस्कृत्य नरश्चैव नरोत्तमम् | देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
ऋषय ऊचुः
सुत नः कथितम्पुण्यं माहात्म्यमाश्विनस्य च । भूयोऽन्यच्छ्रोतुमिच्छामः कार्त्तिकस्य च वैभवम् ॥ २ ॥
मासानां कार्तिकः श्रेष्ठो देवानाम्मधुसूदनः । तीर्थनारायणाख्यं हि त्रितयं दुर्लभंकलौ
नारद उवाच
भगवंस्तव दासोऽस्मि भक्तोऽस्मि हरिवल्लभः ।
वैष्णवान्ब्रूहि मे धर्मान्सर्वज्ञोऽसि पितामह ! ॥ १५ ॥
आदर्श कार्तिक माहात्म्यं वक्तुमर्हसिभेप्रभो ! | दीपदानस्यमाहात्म्यंत्र तिनांनियमांस्तथा गोपीचन्दनमाहात्म्यं तुलस्याश्च तथा विभो ! | धात्र्याश्चैव च माहात्म्यं विधिं स्नानादिकस्य च ।
व्रतारम्भः कदा कार्य उद्यापन विधि तथा ॥ १७ ॥
यत्किञ्चिद्वैष्णवं धर्मं तत्सर्ववक्तुमर्हसि । येनाऽहं त्वत्प्रसादेन पदं यास्याम्यनामयम्
सूत उवाच
कलौ कलु चित्तानां नराणां पापकर्मणाम् । संसाराब्धौनिमग्नानामनायासेनकागतिः इति पुत्रवचः श्रुत्वा ब्रह्मा हर्षसमन्वितः । राधादामोदरं स्मृत्वा प्रोवाचतनुजम्प्रति
को धर्मः सर्वधर्माणामधिकोमोक्षसाधकः । इहाऽपि मुक्तिदो नृणामेतत्त्वकथय प्रभो.
सूत उवाच
ब्रह्मोवाच
।
साधुष्टं त्वया पुत्र! लोकोद्धरणहेतवे । कथयामि न सन्देहः कार्त्तिकस्य च वैभवम् भवद्भिर्यदहं पृष्टस्तदेतत्पृष्टवान्मुनिः । नारदो ब्रह्मणः पुत्रो ब्रह्माणं तु जगद्गुरुम् ॥ एकतः सर्वतीर्थानि सर्वेयज्ञाः सदक्षिणाः । कार्त्तिकस्यतुमासस्यकलानार्हन्तिषोडशीम् तथैवसत्यभामाच श्रीकृष्णंजगदीश्वरम् । अपृच्छत्कार्तिकस्यैव वैभवं श्रवणोत्सुका एकतः पुष्करेवासः कुरुक्षेत्रे हिमालये । एकतः कार्त्तिकः पुत्र सर्वपुण्याधिको मतः ॥ वालखिल्यैश्च ऋषिभिर्यदुक्तमृषिसंसदि । श्रीसूर्यारुणसंवादरूपेणाऽतिमनोहरम् ॥ स्वर्णानि मेरुतुल्यानि सर्वदानानिचैकतः । एकतःकार्त्तिको वत्स सर्वदाकेशवप्रियः
कैलासे शङ्करेणैव कार्तिकस्यच वैभवम् । वर्णितं पण्मुस्याऽग्रे नानाख्यानसमन्वितम् प्रथम्प्रतिनारदेनकथितंचमाहात्म्यकम् । कार्तिकस्य च विप्रेन्द्रा श्रुत्वा ब्रह्ममुखात्पुरा एकदा नारदोयोगी सत्यलोकमुपागतः । पप्रच्छ विनयेनैव सर्वलोकपितामहम् ॥
1
श्रीनारद उवाच
यत्किञ्चित्क्रियते पुण्यं विष्णुमुद्दिश्य कार्त्तिके
तस्य क्षयं न पश्यामि मयोक्तं तव नारद ! ॥ २४ ॥
I
सोपानभूतं स्वर्गस्य मानुष्यं प्राप्यदुर्लभम् । तथाऽऽत्मानं समादद्यान्नभ्रश्येत यथापुनः दुष्प्राप्यं प्राप्य मानुष्यं कार्त्तिकोक्तंचरेन्नयः । धर्म धर्मभृतां श्रेष्ठ! समातापितृघातकः पापेन्धनस्य घोरस्य शुल्काईस्यच भूरिशः । को वह्निर्दहते ब्रह्मस्तद्भवान्यतमर्हति कार्त्तिकः खलु मासः सर्वमासेषु चोत्तमः । पुण्यानाम्परमं पुण्यं पावनानाञ्चपावनम् नाऽज्ञातं त्रिषु लोकेषु ब्रह्माण्डातर्गतस्ययत् । विद्यतेतवदेवेशत्रिविधस्य सुनिश्चितम् । अस्मिन्मासे त्रयस्त्रिंशदेवाः सन्निहिता मुने । अत्रज्ञानानिदानानिभोजनानिव्रतानिच मासनाम्प्रवरो मासो देवानामुत्तमोत्तमः । तीर्थानि तद्विशेषेण कथयस्व पितामह!॥ तिलधेनुं हिरण्यञ्च रजतं भूमिवाससी । गोप्रदानानि कुर्वन्ति सर्वभावेन नारद !||
२७